#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00538 Uniform title: muṇḍamālātantram 2 Editor : rasika mohana caṭṭopādhyāya Description: This tantra is a different text from muṇḍamālātantra I, though they coincide in their contents and concerns and belong to the same period. A fairly late tantra. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 19, 2021 Publisher : Publication year : Publication city : Calcutta Publication country : India #################################################### || ओं नमः शिवाय || सर्वानन्दमयीं विद्यां सर्वाम्नायैर्नमस्कृताम् | सर्वसिद्धिप्रदां देवीं नमामि परमेश्वरीम् || १ || श्रीदेवी उवाच देवदेव महादेव परमानन्दसुन्दर | प्रसीद गुह्यवक्त्रान्त कथयस्व प्रियंवद || २ || सर्वतन्त्रेषु मन्त्रेषु गुप्तं यत् पञ्चवक्त्रतः | तत् प्रकाशय गुह्याख्यं यच्च त्वं मम वल्लभ || ३ || श्रीशिव उवाच कथान्ते कथयिष्यामि गुप्त्ं यच्चञ्चलाम्बिके | स्त्रीस्वभावान्महत्तत्त्व न जानासि शुभप्रदम् || ४ || श्रीदेवी उवाच सुस्थिराऽहं भविष्यामि न वक्तव्यं कदाचन | तव भक्त्या भविष्यामि भावना मन्त्रसिद्धिदा || ५ || श्रीशिव उवाच देवतागुरुमन्त्राणां एकभावनमुच्यते | मन्त्रो यो गुरुरेवासौ यो गुरुः सा च देवता || ६ || काली तारा महाविद्या षोडशी भुवनेश्वरी | भैरवी छिन्नमस्ता च विद्या धूमावती तथा || ७ || बगलामुखी सिद्धविद्या मातङ्गी कमलात्मिका | एता दश महाविद्याः सिद्धविद्याः प्रकीर्तिताः || ८ || अत्यन्तदुर्लभं लोके षडाम्नायनमस्कृताः | एताश्च परमा विद्यास्त्रिषु लोकेषु दुर्लभाः || ९ || सुखदा मोक्षदा विद्या क्लेशसाध्या न तादृशी | येन येन प्रकारेण सिद्धिर्यास्यति भूतले || १० || सर्वं ते कथयिष्यामि प्रेमभावेन केवलम् | नैव सिद्धाद्यपेक्षाऽस्ति नक्षत्रादिविचारणा || ११ || कालादिशोधनं नास्ति नास्ति मित्रादिदूषणम् | सिद्धविद्या महाविद्या युगसेवा परिश्रमम् || १२ || नास्ति किञ्चिन्महादेवि दुःखसाध्यं कदाचन | या काली परमा विद्या [ सैव तारा प्रक्रीर्तिता || १३ || या तारापरमा विद्या चतुर्धा कथिता पुरा | एतयोर्भेदभावेन (सर्वे) नानामन्त्रा भवन्ति हि || १४ || उक्तं च कालिकाकल्पे ताराकल्पे च ते मया | षोडशी या महाविद्या चतुर्धा कथिता पुरा || १५ || लक्ष्मीबीजादिभेदेन पञ्चमी सा भवेदिह | एकाक्षरी महाविद्या बीजहीना भवेत् पुरा || भुवनेश्वरी त्र्यक्षरी तु महाविद्या प्रकीर्तिता || १६ || श्रीदेवी उवाच दुष्टा विद्या च देवेश कथिता न प्रकाशिता | इदानीं तद्दयाभावात् कथयाङन्दसुन्दर || १७ || श्री-ईश्वर उवाच भुवनेशी महाविद्या देवराजेन वै पुरा | आराधिता च विद्येयं वज्रेण नाम मोहिता || १८ || एकाक्षरी बीजहीना वाग्भवेनोज्ज्वला भवेत् | कामराजाख्यविद्या या विद्या सा पुष्पधन्वना || १९ || स्मरेण पूजिता पूर्वं भुवनेश्या प्रतिष्ठिता | कुमारी या च विद्येयं तया शप्ता बहिश्च्युता || २० || केवलं शक्तिरूपेण शिवरूपेण केवलम् | तया प्रतिष्ठिता विद्या तारा चन्द्रस्वरूपिणी || २१ || [भैरवी तु महाविद्या महासम्पत्प्रदायिनी | छिन्नमस्ता सुरामांसप्रिया रक्तस्वरूपिणी || २२ || धूमावती महाविद्या मारणोच्चाटने रता | बगलावश्यस्तम्भादिनानागुणसमन्विता || २३ || मातङ्गी च महाविद्या त्रैलोक्यवशकारिणी | जीवपुत्रैस्तु धनदा पाषाणैः सर्वभोगदा || २४ || कमला त्रिविधा प्रोक्ता एकाक्षरधिया स्थिता || केवला तु महासम्पद्दायिनी सुखमोक्षदा || २५ || || इति द्वितीये मुण्डमालातन्त्रे प्रथमः पटलः || १ || अथ द्वितीयः पटलः श्रीदेवी उवाच अक्षमाला तु कथिता यत्नतो न प्रकाशिता | अक्षमालेति किं नाम फलं किं वा वदस्वमे || १ || श्री-ईश्वर उवाच अक्षमाला तु देवेशि काम्यभेदादनेकधा | भवन्ति शृणु तत् प्रौढे विस्तारादुच्यते मया || २ || अनुलोमविलोमस्थक्षिप्तया वर्णमालया | आदिनान्तःक्षादिकान्तःक्रमेण परमेश्वरि || ३ || क्षकारं मेरुरूपं तं लङ्घयेन्न कदाचन | मेरुहीना च या माला मेरुलङ्घ्या च या भवेत् || ४ || अशुद्धाऽतिप्रकाशा च सा माला निष्फलो भवेत् | चित्राणी विशतन्त्वाभा ब्रह्मनाडीगतान्तरा || ५ || तया संग्रथिता ध्येया सर्वकामफलप्रदा | अष्टोत्तरशतजपादादौ क्लीबं समाचरेत् || ६ || ऋऌवर्णद्वयं यत् तु तद्धिक्लीबं प्रचक्षते | वर्गाणामष्टभिर्वापि काम्यभेदक्रमेण तु || ७ || अकचटतपयशा इत्येवं चाष्टवर्गतः | स्फाटिकैर्मोक्षदा प्रोक्ता पद्माक्षैर्बहुपुत्रदा || ८ || शुद्धस्फटिकमाला तु महासम्पत्प्रदा प्रिये | श्मशानधूस्तुरैर्माला चैका धूमावतीविधौ || ९ || नराङ्गुल्यस्थिभिर्माला ग्रथिता पर्वभेदतः | सर्वसिद्धप्रदा मोक्षदायिनी वरवर्णिनि || १० || नाड्या संग्रथनं कार्यं रक्तेन वाससा अपि | सदा गोप्यं प्रयत्नेन मातुश्च जारवत् प्रिये || ११ || पञ्चधा कथिता माला सर्वसिद्धिफलप्रदा | मौक्तिकैर्ग्रथिता माला सर्वैश्वर्यफलप्रदा || १२ || मणिरत्नप्रबालैश्च हेमराजतसम्भवा | माला कार्या कुशग्रन्थ्या सर्वयज्ञफलप्रदा || १३ || नाडीभिर्ग्रथिता माला महासिद्धिप्रदा प्रिये | त्रिंशतैश्वर्यफलदा पञ्चविंशेन मोक्षदा || १४ || चतुर्दशमयी मोक्षदायिनी भोगवर्ध्हिनी | पञ्चदशात्मिका देवि मारणोच्चाटने स्थिता || १५ || स्तम्भने मोहने वश्ये तिरोधानेऽञ्जने तनोः | पादुकासिद्धिसङ्घे च शतं सङ्ख्या प्रकीर्तिता || १६ || अष्टोत्तरशतं कुर्यादथवा सर्वकामदम् | नित्यं जपं करे कुर्यान्न तु काम्यं कदाचन || १७ || काम्यमपि करे कुर्यान्मालाभावे प्रियंवदे | तत्राङ्गुलिजपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर्जपेत् || १८ || अङ्गुष्ठेन विना कर्मकृतं तदफलं भवेत् | अनामिकाद्वयं पर्व कनिष्ठादिक्रमेण तु || १९ || तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता | मेरुं प्रदक्षिणीकुर्वन् अनामामूलपर्वतः || २० || मेरुलङ्घनदोषात् तु अन्यथा जायते फलम् | आरभ्याऽनामिकामूलात् प्रादक्षिण्यक्रमेण तु || २१ || मध्यमामूलपर्यन्तं जपेदष्टसु पर्वसु | तर्जनीमूलपर्यन्तं जपेद् दशसु पर्वसु || २२ || मध्यमा त्रितया ग्राह्या अनामामूलमेव च | अनामामध्यपर्वं तु मेरुं कृत्वा न लङ्घयेत् || २३ || तर्जन्यग्रे तथा मध्ये यो जपेत् तत्र मानवः | चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् || २४ || अङ्गुलीर्न वियुञ्जीत् किञ्चित् सङ्कोचयेत् तलम् | अथातः प्रथमं वक्ष्ये मालानां तन्त्रबोधनम् || २५ || पूजां विधाय भक्त्या तु शुचिः पूर्वमुपोषितः | विजने प्रजपेन्मौनी स्वयं मालां च साधकः || २६ || कृतनित्यक्रियः शुद्धः शुद्धक्षणे च मन्त्रवित् | यथाकालं यथालाभमक्षाण्यानीय यत्नतः || २७ || अन्योन्यसमरूपाणि नातिस्थूलकृशानि च | कीटादिभिरदुष्टानि न जीर्णानि नवानि च || २८ || गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य च पृथक् पृथक् | ततो द्विजेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् || २९ || त्रिगुणं त्रिगुणीकृत्य पट्टसूत्रमथापि वा | शुक्लं रक्तं तथा कृष्णं शान्तिवश्याभिचारके || ३० || अश्वत्थपत्रैर्नवकैः पद्माकारेण स्थापितैः | सूत्रं मणींश्च गन्धान्तैः क्षालितास्तत्र निक्षिपेत् || ३१ || श्मशानवारिणा चापि पीठप्रक्षालितेन च | शुद्धोदकेन रत्नेन कस्तूरीकुङ्कुमेन च || ३२ || तावत् शक्तिं मातृकां च सूत्रे चैव मणिष्वथ | विन्यस्य पूजयेदाज्यैर्जुहुयाच्चैव यत्नतः || ३३ || होमकर्मण्यशक्तश्चेद् द्विगुणं जपमाचरेत् | मणिमेकैकमादाय सूत्रे सम्पातयेत् सुधीः || ३४ || मुखे मुखं तु संयुज्य पुच्छे पुच्छं तु योजयेत् | गोपुच्छसदृशी कार्याऽथवा सर्पाकृतिर्भवेत् || ३५ || तत्सजातीयमेकाक्षं मेरुत्वेनाऽग्रतो न्यस्त् | एकैकमणिमध्ये तु ब्रह्मग्रन्थिं प्रकल्पयेत् || ३६ || जपमालां विधायेत्थं ततः संस्कारमारभेत् | क्षालयेत् पञ्चगव्येन सद्योजातेन तज्जलैः || ३७ || मन्त्रस्तु - ओं सद्योजातं प्रपद्यामि सद्योजाताय वै नमः | भवे भवे नाभिभवे भव एव मां भवोद्भवः || भवे भवस्य मां भवोद्भवः || ३८ || ङेन्तान्तः प्रणवाद्येन नमोऽन्तेन क्रमाद् यजेत् | चन्दनागुरुगन्धाद्यैर्वामदेवेन घर्षयेत् || ३९ || ओं नमो वामादेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः | कालाय नमः कलविकरणाय नमो बलविकरणाय नमः प्रमथनाय नमः || सर्वभूतदमनाय नमो नम उन्मत्ताय उन्मनाय नमो नमः || ४० || धूपयेत् तामघोरेण लेपयेत् पुरुषेण वै | ओं घोरेभ्योऽघोरेभ्यो घोरघोरतरेभ्यः || ४१ || सर्वतः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्रेभ्यः | ओं तत्पुरुषाय विद्महे महादेवाय धीमहि || ४२ || तन्नो रुद्रः प्रचोदयात् | मन्त्रयेत् पञ्चमेनैव प्रत्येकं तु शतं शतम् || ४३ || ओं ईशानः सर्वविद्यानांमीश्वरः सर्वभूतानाम् | ब्रह्मणोऽधिपतिर्ब्रह्मणोऽधिपतिः शिवः पञ्च सदाशिवः || ४४ || प्रणवाद्यो महामन्त्रः सदाशिव इति क्रमात् | मेरुं च पञ्चमेनैव ततो मन्त्रेण मन्त्रयेत् || ४५ || संस्कृत्यैवं बुधो मालां तत्प्राणांस्तत्र स्थापयेत् | मूलमन्त्रेण देवेशि सम्पूज्य भक्तिभावतः || ४६ || गुरुं सम्पूज्य तद्धस्तात् गृह्णीयादक्षमालिकाम् | अशुचिर्न स्पृशेदेनां करभ्रष्टां न कारयेत् || ४७ || अङ्गुष्ठस्थामक्षमालां चालयेन्मध्यमाग्रतः | तर्जन्यां न स्पृशेदेनां गुरोरपि न दर्शयेत् || ४८ || मध्यमाद् भुक्तिमुक्तिः स्यादनामादुत्तमेन तु | तर्जनीमारणादिष्टकनिष्ठामारणं स्मृतम् || ४९ || भुक्तौ मुक्तौ तथा कृष्टौ मध्यमायां जपे सुधीः | अङ्गुष्ठानामिकाभ्यान्तु जपेद् वश्ये तु कर्मणि || ५० || तर्जन्यङ्गुष्ठयोगेन मारणोच्चाटने जपेत् | कनिष्ठाङ्गुष्ठयोगाच्च जपेन्मारणकर्मणि || ५१ || जपान्ते तु च मालां वै पूजयित्वा तु पोषयेत् | जपकाले तु गोप्तव्या जपमाला तु सा शुभा || ५२ || गुरुं प्रकाशयेद् विद्वान् न तु मन्त्रं कदाचन | अक्षमालां च विद्यां च न कदाचित् प्रकाशयेत् || ५३ || भूतराक्षसवेताला गन्धर्वाः सिद्धचारणाः | हरन्ति प्रकटात् सिद्धिं तस्माद् गुप्तिं सदा कुरु || ५४ || जीर्णसूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् | प्रमादात् पतिताद्धस्तात् शतमष्टोत्तरं जपेत् || ५५ || भ्रमन्निषिद्धसंस्पर्शे क्षालयित्वा च पूजयेत् | जपमाला मया देवि कथिता भुवि दुर्लभा || सदा गोप्या प्रयत्नेन यदि त्वं मम वल्लभा || ५६ || || इति द्वितीये मुण्डमालातन्त्रे द्वितीयः पटलः || २ || अथ तृतीयः पटलः देवी उवाच स्थानासने देवदेव कथयानन्दसुन्दर | सदाचार्यं विना येन सर्वमन्त्राः सुसिद्धगाः || १ || श्री-ईश्वर उवाच नदीतीरे बिल्वमूले श्मशाने शून्यवेश्मनि | महालिङ्गे पर्वते वा देवागारे चतुष्पथे || २ || शवस्योपरि मुण्डे वा जले वा कण्ठपूरिते | संग्रामभूमौ योनौ तु स्थले वा विजने वने || ३ || यत्र कुत्र स्थले रम्ये यत्र वा स्यान्मनोरमम् | स्थानं ते कथितं देवि आसनं कथ्यतेऽधुना || ४ || स्तम्भने गजचर्माऽथ मारणे माहिषं तथा | मेषचर्म तथोच्चाटे खड्गीयं वश्यकर्मणि || ५ || विद्वेषे जाम्बुकं प्रोक्तं भवेद् गोचर्म शन्तिके | व्याघ्राजिने सर्वसिद्धिर्ज्ञानसिद्धिर्मृगाजिने || ६ || वस्त्रासनं रोगहरं वेत्रजं विपुलश्रियम् | कौशेयं पुष्टिकार्ये च कम्बलं दुःखमोचनम् || रक्तं वा यदि वा कृष्णं विशेषाद् रक्तकम्बलम् || ७ || निन्दितासनमाह - वंशासने च दारिद्र्यं दौर्भाग्यं दारुजासने | धरण्यां दुःखसम्भूतिः पाषाणे रोगसम्भवः || ८ || तृष्णासने यशोहानिरेतत् साधारणं स्मृतम् | मृदुकम्बलमास्तीर्णं संग्रामे पतितं हि तत् || ९ || जन्तुव्यापादितं वाऽपि मृतं वा नवमासकम् | गर्भच्युतत्वचं वापि नारीणां योनिजां त्वचम् || १० || सर्वसिद्धिप्रदं देवि सर्वभोगसमृद्धिदम् | त्वचं वा योनिसंस्थायाः कुर्याद् वीरो रतासनम् || ११ || श्मशानकाष्ठघटितं पीठं वा यज्ञदारुजम् | नाऽदीक्षितो विशेज्जातु कृष्णसारासने गृही || १२ || उदासीनवदासीनस्नातकब्रह्मचारिणः | कुशाजिनाम्बरैः कार्यं चतुरस्रं समन्तन्तः || १३ || एकहस्तं द्विहस्तं वा चतुरङ्गुलमुच्छ्रितम् | विशुद्ध आसने कुर्यात् संस्कारं पूजनं बुधः || १४ || भद्रासनं रोगहरं योगदं कौर्ममासनम् | पद्मासनमिति प्राहुः सर्वैश्वर्यफलप्रदम् || १५ || एकं वीरासनं देवि सर्वसिद्धिप्रदं नृणाम् | ऊर्ध्वपादौ स्थितौ देवि निरोधः परिमण्डितम् || १६ || पद्मासनेन देवेशि पातालगृहसंस्थितः | सर्वासनानां श्रेष्ठं हि देवैरपि सुदुष्करम् || १७ || रात्रौ च योऽर्चयेद् देवीं धनवान् सुतवान् भवेत् | पीठानां देवि सर्वेषां चतुर्द्धा पीठमुत्तमम् || १८ || उड्डीयानं महापीठं पीठानां पीठमुत्तमम् | जालन्धरं महापीठं तथा पूर्णाचलं मतम् || १९ || पञ्चाशत्पीठमध्ये तु कामरूपं महाफलं | कृते जालन्धरं ज्ञेयं त्रेतायां पूर्णपर्वतम् || २० || उड्डीयानं द्वापरे च कामरूपं कलौ युगे | महाफलप्रदं लोके तत्क्षणात् सिद्धिदं महत् || २१ || जपपूजा बलिस्तत्र देवि लक्ष गुणो भवेत् | बहुधा कथ्यते देवि किं तस्य गुणवर्णनम् || योनिरूपेण यत्रास्ते स्वयं कोटिगुणात्मिका || २२ || || इति द्वितीये मुण्डमालातन्त्रे तृतीयः पटलः || अथ चतुर्थः पटलः श्रीदेवी उवाच केवलं बलिदानेन तुष्टा भवति चण्डिका | कथितं पूर्वमस्मभ्यं प्रकाशं कुरु शङ्कर || १ || श्री-ईश्वर उवाच अत्यन्तगुह्यं देवेशि विधानं बलिपूजनम् | कथयामि वरारोहे सुस्थिरा भव सर्वदा || २ || दधि क्षीरं व्रतान्नं च पायसं शर्करान्वितम् | पायसं क्षौद्रमांसं च नारिकेलं समोदकम् || ३ || शर्करं मेषखण्डं च आर्द्रकं सहशर्करम् | रम्भाफलं लड्डुकं च भर्जितान्नं च पिष्टकम् || ४ || शालमत्स्यं च पाठीनं शकुलं चेकुटं तथा | मद्गूरं च बलिं दद्यात् मांसं माहिषमेषकम् || ५ || पक्षिमांसं महादेवि डिम्बं नानासमुद्भवम् | कृष्णछागं महामांसं गोधिकां हरिणीं तथा || ६ || जलजे मत्स्यमांसे च गण्डकीमांसमेव च | नानाव्यञ्जनदग्धानि व्यञ्जनानि मधूनि च || ७ || ईषद् दग्धं घृतेनाक्तं निशायां दिवसेऽपि वा | बलिं दद्यात् विशेषेण कृष्णपक्षे शुभे दिने || ८ || छागे दत्ते भवेद् वाग्मी मेषे दत्ते कविर्भवेत् | महिषे धनवृद्धिः स्यात् मृगे मोक्षफलं भवेत् || ९ || दत्ते पक्षिणि ऋद्धिः स्यात् गोधिकायां महाफलम् | नरे दत्ते महर्द्धिः स्यात् यतः सिद्धिरनुत्तमा || १० || ललाट - हस्त - हृदय - शिरो - भ्रू - मध्यदेशतः | स्वहृदो रुधिरे दत्ते रुद्रदेह इवाऽपरः || ११ || चण्डालबलिदानेन महासिद्धिः प्रजायते | सुरादानेन देवेशि महायोगीश्वरो भवेत् || १२ || सुरा तु त्रिविधा प्रोक्ता स्फाटिकी डाकिनी तथा | काञ्चिकी च महादेवि कथिता भुवि दुर्लभा || १३ || स्फाटिकीदानमात्रेण धनवृद्धिरनुत्तमा | डाकिनीदानयोगेन सर्ववश्यो भवेद् ध्रुवम् || १४ || काञ्चिकी सुरया देवि योऽर्चयेत् परमेश्वरीम् | गुटिकाञ्जनस्तम्भादिमारणोच्चाटनादिभिः || १५ || महासिद्धीश्वरो भूत्वा वसेत् कल्पायुतं दिवि | अर्घ्योदके महेशानि महासिद्धिरनुत्तमा || १६ || रक्तचन्दनबिल्वादिजवाकुसुमवर्वरैः | अर्घ्यं दत्त्वा महेशानि सर्वकामार्थसाधनम् || १७ || सुरया चाऽर्घ्यदानेन योगिनीनां प्रियो भवेत् | पुरः पात्रं घटस्याऽन्ते तदन्ते भोज्यपत्रकम् || १८ || तदन्ते वीरपात्रं च बलेः पात्रं तदन्तिके | पाद्यार्घाचमनीयानां पात्राणि स्थापयेत् बुधः || १९ || महायोगी भवेद् देवि पीठप्रक्षालितैर्जलैः | स्वयम्भूकुसुमे दत्ते भवेत् षट्कर्मभाजनम् || २० || सुशीतलजलैरर्घ्यं कस्तूरीकुङ्कुमान्वितैः | कुण्डगोलोऽथ बीजैर्वा सर्वसिद्धीश्वरो भवेत् || २१ || सधवारतिसम्भूतं कुण्डमुत्तमभूतिदम् | विधवारतिसम्भूतं गोलमृद्धिप्रदं भुवि || २२ || मूलमन्त्रेण देविशि आकृष्य निर्भयः शुचिः | अर्घ्यं दद्यात् विशेषेण चक्रवातेन पूजिता || २३ || स्वयम्भूकुसुमं देवि त्रिविधं भुवि जायते | आषोडशादनूढाया उत्तमा सर्वसिद्धिदा || २४ || रजोयोगवशादन्या मध्यमा सुखदायिनी | बलात्कारेण देवेशि अधमा भोगवर्द्धिनी || २५ || कुमारीपूजने शक्तो नारीं स्वप्नेऽपि न स्मरेत् | आकृष्य बद्धयोगेन गोलोऽथ पुष्पकं न्यसेत् || २६ || शुद्धं कुर्यात् प्रयत्नेन निर्भयः शुचिमानसः | ताम्रपात्रे कपाले वा श्मशानकाष्ठनिर्मिते || २७ || शनिभौमदिने वाऽपि शरीरे मृतसम्भवे | सुवर्णेऽप्यथ लोहे वा चक्रमर्च्यं यथाविधि || २८ || पुष्पाण्यपि तथा दद्याद् रक्तकृष्णसितानि च | श्वेतरक्तं जवापुष्पं करवीरं तथा प्रिये || २९ || तगरं मल्लिका जाती मालती यूथिका तथा | धुत्तूराशोकबकुलाः श्वेतकृष्णाऽपराजिताः || ३० || बकपुष्पं बिल्वपत्रं चम्पकं नागकेशरम् | वह्निका झिण्टिका कञ्चिरक्तं यत् परिकीर्तितम् || ३१ || अर्कपुष्पं जवापुष्पं वर्वरं च प्रियंवदे | अष्टम्यां तु विशेषेण सन्तुष्टा तस्य पार्वती || ३२ || अष्टम्यां च चतुर्दश्यां नानापुष्पैः समर्चयेत् | पद्मपुष्पेण रक्तेन सन्तुष्टाः सर्वदेवताः || ३३ || कृष्णा वा यदि वा शुक्ला कालिका वरदा भवेत् | श्मशानधुत्तरेणैव तुष्टा मधुमती परा || ३४ || श्मशानजातपुष्पेण सन्तुष्टा कालिका परा | वन्यपुष्पैश्च विविधैः सन्तुष्टा पार्वती परा || ३५ || आमलक्यास्तु पत्रेण तुष्टा पुष्पेण पार्वती | अष्टम्यां च चतुर्दश्यां नानापुष्पैः सदाऽर्चयेत् || श्मशाने रात्रिशेषे च शनिभौमदिने निशि || ३६ || || इति द्वितीये मुण्डमालातन्त्रे चतुर्थः पटलः || ४ || अथ पञ्चमः पटलः श्रीदेवी उवाच रहस्यातिरहस्यं मे पुरश्चर्याविधिं प्रभो | वदस्व यदनुष्ठानात् सर्वकामा भवन्ति हि || १ || श्री-ईश्वर उवाच गृहीत्वा सद्गुरोर्दीक्षां शुभकाले दिवा निशि | अधमो वैष्णवः प्रोक्तो मध्यमः शैवदीक्षितः || २ || परया दीक्षितो यो वै स एव परमो गुरुः | चतुर्दशसहस्राणि सेवितो हरिहरात्मकः || ३ || ततो भवति देवेशि परापूजारतः पुमान् | कायेन मनसा वाचा सुवर्णरजतादिभिः || ४ || सन्तोष्य परया भक्त्या गुरुं दीक्षां समाश्रयेत् | पूर्वोक्तस्थानमासाद्य जपपूजां समाश्रयेत् || ५ || प्रातःकालं समारभ्य जपेन्मध्यदिनावधि | प्रथमेऽहनि यज्जप्तं तज्जप्तव्यं दिने दिने || ६ || न्यूनाधिकं न जप्तव्यमासमाप्तं सदा जपेत् | गते प्रथमयामे तु तृतीयप्रहरावधि || ७ || निशायां च प्रजप्तव्यं रात्रिशेषे जपेन्न च | हविष्यं भक्षयेन्नित्यमेकवारं सुसंयतः || ८ || लघ्वाहारं प्रकुर्वीत युवतीपूजने रतः | स्वस्त्रीमन्यस्त्रीयं वापि पूजयेत् सर्वपर्वसु || ९ || नाधमे सङ्गतिः कार्या सर्वप्राणिहिते रतः | यस्य यावान् पजः प्रोक्तः तद्दशांशमनुक्रमात् || १० || तत्तद्द्रव्यैर्जपस्याऽन्ते होमं कुर्याद् दिने दिने | होमस्य च दशांशेन तर्पणं प्रोक्तमेव च || ११ || तर्पणस्य दशांशेन शिरोमार्जनमिष्यते | तद्दशांशेन विप्रेन्द्रान् कुर्वीत कुलकन्यकाः || १२ || सम्भोजयेत् प्रीतियुक्तैर्द्रव्यैर्नानाविधैरपि | होमाद्यशक्तो देवेशि कुर्याच्च द्विगुणं जपम् || १३ || यदि पूजाद्यशक्तः स्यात् द्रव्यालाभेन सुन्दरि | केवलं जपमात्रेण पुरश्चर्या विधीयते || १४ || दिव्यो वा यदि वा वीरो भुवि स्यात् साधकोत्तमः | स्वेच्छाचारपरो भूत्वा एकान्ते सर्वदा जपेत् || १५ || मत्स्यमांसप्रदानेन शाक्तः कुर्यात् पुरस्क्रियाम् | एकारात्रौ श्मशाने वा शवे वा प्रौढबालयोः || १६ || मयोक्तं भैरवीकल्पे विधानं वरवर्णिनि | हस्तमात्रनिखाते वा कुण्डे वा विजने वने || १७ || वीराणां साधनं देवि कथितं भुवि दुष्करम् | कुमारीपूजनादेव पुरश्चर्याविधिः स्मृतः || १८ || नानाजातिभवाः कन्या रूपलावण्यसंयुताः | अत्यन्तप्रौढा बाला वा कोकिला वरदायिनी || १९ || नानाद्रव्यैः प्रियकरैः भक्ष्यभोज्यादिभिः शुभैः | पूजयेत् परभावेन नानारूपमनोहराः || २० || भगिनी कन्यका वाऽपि दौहित्री वा कुटुम्बिनी | मातृवर्जं सदा पूज्या नानाजातिसमुद्भवा || २१ || अथवाऽन्यप्रकारेण पुरश्चरणमिष्यते | कृष्णां चतुर्दशीं प्राप्य नवम्यां तु महोत्सवे || २२ || सूर्योदयं समारभ्य यावत् सूर्योदयं भवेत् | तावज्जप्ते महेशानि पुरश्चर्या विधीयते || २३ || कृष्णाष्टमीं समारभ्य यावत् कृष्णाष्टमी भवेत् | सहस्रसंख्ये जप्ते तु पुरश्चरणमिष्यते || २४ || अष्टमीं नवमीं रात्रौ पूजां कुर्यात् विशेषतः | दशम्यां पारणं कुर्यात् मत्स्यमांसादिभिः प्रिये || २५ || षट्सहस्रं जपेन्नित्यं भक्तिभावपरायणः | चतुर्दशीं समारभ्य यावदन्या चतुर्दशी || २६ || तावज्जपेत् महेशानि पुरश्चरणमिष्यते | केवलं जपमात्रेण मन्त्राः सिद्धा भवन्ति हि || २७ || विना होमादिदानेन विशेषात् पीठपूजने | योनिपीठं महापीठं कामपीठं तथाऽपरम् || २८ || तयोरेकतरं पूज्यं रुद्रदेह इवापरः | तीर्थे तिथिविशेषे च ग्रहणे चन्द्रसूर्ययोः || गुरोरनुग्रहे चैव दीक्षाकालः शुभः स्मृतः || २९ || || इति द्वितीये मुण्डमालातन्त्रे पञ्चमः पटलः || ५ || अथ षष्ठः पटलः अथ देवि प्रवक्ष्यामि गुप्तां त्रिभुवनेश्वरीम् | यामाराध्य पुरा सर्वे भूतिभाजोऽभवन् सुराः || १ || ब्रह्मा रुद्रः सहस्राक्षो रमाशिवमनोभवाः | शक्तिर्माया महेशानि विद्या वस्वक्षरा मता || २ || ऋषिर्ब्रह्मा विराट् छन्दो देवता लोकपावनी | महामायेति विख्याता बीजं लक्ष्मीः प्रकीर्तितम् || ३ || माया शक्तिः कीलकं च शैवदेहमुदाहृतम् | षडङ्गानि ततः कुर्यात् मायादीर्घेण संयुता || ४ || ध्यानं देवि प्रवक्ष्यामि सर्वैश्वर्यफलप्रदम् | विद्युत् पुञ्जनिभां देवीं रक्तपद्मासने स्थिताम् || ५ || त्रिनेत्रां दिग्भवावासां पाणिविंशतिशोभिताम् | पीत - रक्त - श्वेत - कृष्ण - धूम्र - पाटल - मौक्तिकम् || ६ || नील - पीत - विचित्राणि वर्णानि कथितानि वै | खङ्ग - शूल - गदा - चक्र - शङ्ख - चाप - शराणि च || ७ || लसत्परिघशस्त्राढ्यमूषलं दाननिर्भयम् | कर्तृमुद्रां तथा योगमुद्रां च दधतीं करैः || ८ || शक्तिशूलधरां देवी सर्वसिद्धिफलप्रदाम् | पूजायन्त्रं प्रवक्ष्यामि षट्कोणं शक्तिसंयुतम् || ९ || षडष्टषोडशदलं पद्मं द्वारसमन्वितम् | त्रिकोणे पूजयेद् देवीं मायां वाणीं हरिप्रियाम् || १० || रतिः प्रीतिः क्षमा पूज्या पुष्टिस्तुतिमनोहराः | योगनिद्रा महानिद्रा महामाया महासुरी || ११ || महामुद्रा महास्वप्ना षड्दले पूजयेत् क्रमात् | क्षेमङ्करी योगमुद्रा शरीराकर्षिणी तथा || १२ || लज्जा शान्तिर्लक्षणा च चपला शान्तिविग्रहा | अष्टदले महेशानि वामावर्तेन पूजयेत् || १३ || विद्या च परमा विद्या महाविद्या महाबला | सौम्या परमसौम्या च महासौम्या महापरा || १४ || कालरात्रिर्महारात्रिर्गायत्री च महाम्बिके | प्रकृतिर्विकृतिर्मेघा विश्वरूपाः क्रमादिमाः || १५ || महातत्त्वा प्रमत्ता च उन्मदा मन्दगामिनी | महाप्रह्लादा बगला पूजयेद् विधिना तथा || १६ || जपमुण्डां महोग्रां च भीमाद् भीमकपालिकाम् | अट्टाट्टहासिनीं नित्यां हर्षेणाऽविह्वलां तथा || १७ || विकटा बहुरूपा च महारूपा महाप्रदा | घोररावा महानित्या महामञ्जुलभासिनी || १८ || सर्वदा सुन्दरी पूज्या अपरत्र क्रमात् प्रिये | इन्द्रादयस्ततः पूज्याः पूर्वादिदिग्विदिक्षु च || १९ || चतुर्द्वारे ततः पूज्या भगक्लिन्ना भगाक्षरा | भगदेवी भगाक्षी च विधिना वामवर्त्मना || २० || एवं संपूज्य तां देवीं चतुर्लक्षं मनुं जपेत् | होमादिविधिना कुर्यात् दशांशात् क्रमतः प्रिये || २१ || अनया विद्यया देवि महासिद्धीश्वरो भवेत् | धनवान् पुत्रवान् वाग्मी सुधी भोगी महाबलः || २२ || राज्यलक्ष्मीमवाप्नोति देवीपुत्रः सदैव हि | भुवनेशी भगवती वह्निजायान्वितो मनुः || २३ || सप्ताक्षरो महेशानि सर्वसिद्धिफलप्रदः | स्वर्णपद्मनिभां देवीं सर्वालङ्कारभूषिताम् || २४ || क्षौमवासां त्रिनयनां शैलसिंहसमाश्रिताम् | अथवा सिंहशैलौ च इन्द्रादिरथदेवताः || २५ || एवं ध्यात्वा जपेत् पूर्वं समस्तं हि समाहितः | सर्वकालं तु तज्जप्यं मन्त्रं सर्वसमृद्धिदम् || २६ || शिववामेन संयुक्तं श्रोत्रेन द्वितयं प्रिये | ब्रह्मामुखेन संयुक्तो द्विरावृत्तमनुक्रमात् || २७ || नयनेन समायुक्तः शक्रान्विततया गतः | हृदायुक्तो मनुरयं सर्वविद्याफलप्रदः || २८ || बीजं शक्तिः कीलकं च आद्यन्तमध्ययोगतः | षड्दीर्घबीजादेव षडङ्गानि प्रकल्पयेत् || २९ || कालीं करालवदनां नरमालाविभूषिताम् | चतुर्हस्तां त्रिनयनां शशमांसकराम्बुजाम् || ३० || कपालचित्रखट्वाङ्गधारिणीं भीमनादिनीम् | करिचर्मपरीधानां शुष्कमांसातिभैरवाम् || ३१ || त्रैलोक्यग्रसमानास्यां जिह्वाद्वितयभीषणाम् | निमग्न - वर्तुलाऽऽरक्त - नयन - त्रय - धारिणीम् || ३२ || एवं ध्यावा यजेद् देवीं कुलपीठे मनोहरे | त्रिकोणं चतुरस्रं तु षट्कोणं नवकोणकम् || ३३ || वृत्तं दलाष्टमथवा चतुरस्रं लिखेत् बुधः | त्रिकोणे पूजयेद् देवीं प्रचण्डां चण्डनायिकाम् || ३४ || चण्डकालीं च चण्डालीं प्रचण्डां कालनायिकाम् | खट्वां मत्तां क्रमाद् देवि पूजयेद् विधिना पथा || ३५ || जयतुण्डां महोग्रीं च भीमां भीमकपालिकाम् | अट्टाट्टहासिनीं नित्यां प्रगल्भां घोररूपिणीम् || ३६ || शुष्कभीमां जपेद् देवि वसुकोणे परात्मिके | अतिकालीं महाकालीं महानित्यां महाभयाम् || ३७ || विचित्रां चित्ररूपां च भीमनादनिनादिनीम् | महाघोरां यजेद् देवि दलान् दिक्षु विदिक्षु च || ३८ || इन्द्रादयस्ततः पूज्या लक्षमन्त्रं सदा जपेत् | इयं सा षोडशी प्रोक्ता त्रिशक्तिरभिधीयते || ३९ || तारं कान्तं युवतिस्थं वारुणं भौतिकं तथा | सेचनीये द्वयं कूर्चं फट् स्वाहा च तथा परे || ४० || वेदाद्याब्जवै (?) रोचनीये सर्वपदं तथा | बुद्धिभावं तथाङीय रुद्रवत् परिकीर्तितम् || ४१ || वन्दनीयः शिवः षष्ठः स्वरमर्त्यसमन्विताम् | नादबिन्दुयुतां द्वन्द्वं फट् स्वाहा तदनन्तरम् || ४२ || सप्तविंश[अक्षरयुता] महाविद्या प्रकीर्तिता | ओं लज्जां त्रपां मेधां हुं फडित्युग्रतारिका || ४३ || ओं माया श्रीं हुं अस्त्रान्तमित्येकजटामन्त्रः | रकारं प्रथमं रेफचतुर्दशस्वरान्वितम् || ४४ || पुटितान्तेन कर्तव्यं परापरफलप्रदम् | अस्त्रहीनमिदं नीलसरस्वत्या विनिर्दिशेत् || ४५ || कामाख्यायास्तु ह्रां ह्रीं ह्रूं त्रिपुरं समुदाहृतम् | नारसिंहस्ततः श्वन्तं शुद्धं कुर्यात्तमेव च || ४६ || ईं ईङ्कारिणीमाख्याता त्रिबीजं मन्त्रमुत्तमम् | तुर्यमष्टोत्तरमथवा ? पुनरुत्तरम् || ४७ || इति भगवति वैष्णवीति पदं ततः | सुभगे वह्निजायान्तं मन्त्रमेवं प्रकीर्तयेत् || ४८ || इन्द्रबीजं समुच्चार्य षष्ठस्वरसमन्वितम् | वाराही शक्रबीजं च पञ्चस्वरविभूषितम् || ४९ || ओं तुष्यतु भैरवीपदं चरणाय नमोक्तिकम् | वाराह्या इति विख्याता दुर्लभा शत्रुमारणे || ५० || ब्रह्मा वह्निसमारूढः चतुर्थस्वरसंयुतः | नादबिन्दुसमायुक्तस्त्रिशूलीकृतविग्रहः || ५१ || कृच्छ्रं शिवायुग्मं नामाक्षरसमायुतम् | वाग्बीजवह्निवनिता दक्षिणाया द्विविंशतिः || ५२ || ह्रीं स्वरत्रैपुरा केवलाया इहेत्यपि | हन्ति पिशाचिनी चैव त्रिभाषां तदादितः || ५३ || उच्छिष्ठगणनाथस्य मन्त्रोऽयं सर्वदाकृतः | एतासामपि देवीनां जषहोमे च तर्पणे || ५४ || स्वेच्छाविरचितं रत्ने तत्त्वबोधनिरोधने | देवतागुरुमन्त्राणामैक्यमावश्यकारिणः || ५५ || श्रद्धया जायते सिद्धिरिह लोकेऽपरत्र च | नित्यमध्यात्मयोगे च स्थिरात् सिद्धिमवाप्नुयात् || ५६ || सर्वान् कामानवाप्नोति दिव्यान् भोगान् रसातलान् | शृणु देवि प्रवक्ष्यामि म्हाविद्यां महाकलाम् || ५७ || नादबिन्दुसमायुक्तमाद्यबीजमुदाहृतम् | वान्तनेत्रेण संयुक्तं पान्तेन सहितं प्रिये || ५८ || नादबिन्दुसमायुक्तं द्वितीयं बीजमुत्तमम् | सर्वैश्वर्यप्रदे वह्निजायान्तो मनुरुत्तमः || ५९ || ऋषिः सदाशिवोऽस्यास्तु गायत्रीच्छन्द उच्यते | देवता शुम्भमथनी सर्वदेवनमस्कृता || ६० || आद्यबीजेन देवेशि षड् दीर्घेण षडङ्गकम् | आद्यन्तबीजयोगेन बीजशक्तिशरीरकाम् || ६१ || ध्यायेद् देवीं त्रिनयनां फुल्लेन्दीवरलोचनाम् | पक्वबिम्बसमानाङ्गीं चारुचन्द्रनिभाननाम् || ६२ || अष्टादशभुजां नित्यां सिंहपृष्ठसमाश्रिताम् | कोटिकोटिगणैरर्च्या पाशाङ्कुशधनुःशरान् || ६३ || शङ्खचक्रगदापद्मघण्टामुद्गरपट्टिशान् | चर्मखड्गं महायष्टिं कपालकर्कशान् शरान् || ६४ || अथवा पाणिशतशः प्रहारैरतिसंयुताम् | त्रिकोणान्तरषट्कोणे दलाष्टपरिशोभिते || ६५ || पद्मे त्रिकोणमध्ये तु सिद्धर्धिककला लता | षट्कोणे पूजयेद् देवीं कालीं चण्डां प्रचण्डिकाम् || ६६ || इच्छापूर्तिमहाभीमां शिवानीं वामवर्त्मना | अथाऽष्टदलमध्ये तु ब्राह्यादिमातरः क्रमात् || ६७ || ब्राह्मी माहेश्वरी स्कान्दी वैष्णवी शांकरी तथा | नारसिंही तथा चैन्द्री शिवदूती प्रभेदतः || ६८ || यथावर्णयथाशस्त्रधारिण्यो योगिनीगणाः | इन्द्रादयस्ततः पूज्या द्वारे नन्दिमहाबलौ || ६९ || पराजयो जयश्चैव पुष्पाञ्जलित्रयैर्यजेत् | पञ्चलक्षं जपेन्मन्त्रं तद्धोमादि दशांशतः || ७० || अनया सदृशी विद्या त्रिलोकेषु सुदुर्लभा | केवलं त्वत्प्रयत्नेन कथिता कुलसुन्दरि || ७१ || क्रमात् विद्या महेशानि समस्तायां हि पूजयेत् | न किञ्चित् दुर्लभं तस्य त्रिषु लोकेषु विद्यते || ७२ || इह लोके सुखं सर्वं देवीगणमथाऽन्यतः | गोप्तव्यं तत् प्रयत्नेन यस्मै कस्मै न विन्यसेत् || ७३ || || इति द्वितीये मुण्डमालातन्त्रे षष्ठः पटलः || ६ || समाप्तश्चायं ग्रन्थः ########### END OF FILE #######